Текст песни Rajalakshmee Sanjay - Ganesh Sahasranamam
На этой странице находится текст песни Rajalakshmee Sanjay - Ganesh Sahasranamam, а также перевод песни и видео или клип.
|
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्, प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये । ॐ गणेश्वरो गणक्रीडो गणनाथो गणाधिपः । एकदन्तो वक्रतुण्डो गजवक्त्रो महोदरः ॥ १॥ लम्बोदरो धूम्रवर्णो विकटो विघ्ननाशनः । सुमुखो दुर्मुखो बुद्धो विघ्नराजो गजाननः ॥ २॥ भीमः प्रमोद आमोदः सुरानन्दो मदोत्कटः । हेरम्बः शम्बरः शम्भुर्लम्बकर्णो महाबलः ॥ ३॥ नन्दनो लम्पटो भीमो मेघनादो गणञ्जयः । विनायको विरूपाक्षो वीरः शूरवरप्रदः ॥ ४॥ महागणपतिर्बुद्धिप्रियः क्षिप्रप्रसादनः । रुद्रप्रियो गणाध्यक्ष उमापुत्रोऽघनाशनः ॥ ५॥ कुमारगुरुरीशानपुत्रो मूषकवाहनः । सिद्धिप्रियः सिद्धिपतिः सिद्धः सिद्धिविनायकः ॥ ६॥ अविघ्नस्तुम्बुरुः सिंहवाहनो मोहिनीप्रियः । कटङ्कटो राजपुत्रः शाकलः संमितोऽमितः ॥ ७॥ कूष्माण्डसामसम्भूतिर्दुर्जयो धूर्जयो जयः । भूपतिर्भुवनपतिर्भूतानां पतिरव्ययः ॥ ८॥ विश्वकर्ता विश्वमुखो विश्वरूपो निधिर्गुणः । कविः कवीनामृषभो ब्रह्मण्यो ब्रह्मवित्प्रियः ॥ ९॥ ज्येष्ठराजो निधिपतिर्निधिप्रियपतिप्रियः । हिरण्मयपुरान्तःस्थः सूर्यमण्डलमध्यगः ॥ १०॥ कराहतिध्वस्तसिन्धुसलिलः पूषदन्तभित् । उमाङ्ककेलिकुतुकी मुक्तिदः कुलपावनः ॥ ११॥ किरीटी कुण्डली हारी वनमाली मनोमयः । वैमुख्यहतदैत्यश्रीः पादाहतिजितक्षितिः ॥ १२॥ सद्योजातः स्वर्णमुञ्जमेखली दुर्निमित्तहृत् । दुःस्वप्नहृत्प्रसहनो गुणी नादप्रतिष्ठितः ॥ १३॥ सुरूपः सर्वनेत्राधिवासो वीरासनाश्रयः । पीताम्बरः खण्डरदः खण्डवैशाखसंस्थितः ॥ १४॥ चित्राङ्गः श्यामदशनो भालचन्द्रो हविर्भुजः । योगाधिपस्तारकस्थः पुरुषो गजकर्णकः ॥ १५॥ गणाधिराजो विजयः स्थिरो गजपतिर्ध्वजी । देवदेवः स्मरः प्राणदीपको वायुकीलकः ॥ १६॥ विपश्चिद्वरदो नादो नादभिन्नमहाचलः । वराहरदनो मृत्युञ्जयो व्याघ्राजिनाम्बरः ॥ १७॥ इच्छाशक्तिभवो देवत्राता दैत्यविमर्दनः । शम्भुवक्त्रोद्भवः शम्भुकोपहा शम्भुहास्यभूः ॥ १८॥ शम्भुतेजाः शिवाशोकहारी गौरीसुखावहः । उमाङ्गमलजो गौरीतेजोभूः स्वर्धुनीभवः ॥ १९॥ यज्ञकायो महानादो गिरिवर्ष्मा शुभाननः । सर्वात्मा सर्वदेवात्मा ब्रह्ममूर्धा ककुप्श्रुतिः ॥ २०॥ ब्रह्माण्डकुम्भश्चिद्व्योमभालःसत्यशिरोरुहः । जगज्जन्मलयोन्मेषनिमेषोऽग्न्यर्कसोमदृक् ॥ २१॥ गिरीन्द्रैकरदो धर्माधर्मोष्ठः सामबृंहितः । ग्रहर्क्षदशनो वाणीजिह्वो वासवनासिकः ॥ २२॥ भ्रूमध्यसंस्थितकरो ब्रह्मविद्यामदोदकः । कुलाचलांसः सोमार्कघण्टो रुद्रशिरोधरः ॥ २३॥ नदीनदभुजः सर्पाङ्गुलीकस्तारकानखः । व्योमनाभिः श्रीहृदयो मेरुपृष्ठोऽर्णवोदरः ॥ २४॥ कुक्षिस्थयक्षगन्धर्वरक्षःकिन्नरमानुषः । पृथ्वीकटिः सृष्टिलिङ्गः शैलोरुर्दस्रजानुकः ॥ २५॥ पातालजङ्घो मुनिपात्कालाङ्गुष्ठस्त्रयीतनुः । ज्योतिर्मण्डललाङ्गूलो हृदयालाननिश्चलः ॥ २६॥ हृत्पद्मकर्णिकाशाली वियत्केलिसरोवरः । सद्भक्तध्याननिगडः पूजावारिनिवारितः ॥ २७॥ प्रतापी काश्यपो मन्ता गणको विष्टपी बली । यशस्वी धार्मिको जेता प्रथमः प्रमथेश्वरः ॥ २८॥ चिन्तामणिर्द्वीपपतिः कल्पद्रुमवनालयः । रत्नमण्डपमध्यस्थो रत्नसिंहासनाश्रयः ॥ २९॥ तीव्राशिरोद्धृतपदो ज्वालिनीमौलिलालितः । नन्दानन्दितपीठश्रीर्भोगदो भूषितासनः ॥ ३०॥ सकामदायिनीपीठः स्फुरदुग्रासनाश्रयः । तेजोवतीशिरोरत्नं सत्यानित्यावतंसितः ॥ ३१॥ सविघ्ननाशिनीपीठः सर्वशक्त्यम्बुजालयः । लिपिपद्मासनाधारो वह्निधामत्रयालयः ॥ ३२॥ उन्नतप्रपदो गूढगुल्फः संवृतपार्ष्णिकः । पीनजङ्घः श्लिष्टजानुः स्थूलोरुः प्रोन्नमत्कटिः ॥ ३३॥ निम्ननाभिः स्थूलकुक्षिः पीनवक्षा बृहद्भुजः । पीनस्कन्धः कम्बुकण्ठो लम्बोष्ठो लम्बनासिकः ॥ ३४॥ भग्नवामरदस्तुङ्गसव्यदन्तो महाहनुः । ह्रस्वनेत्रत्रयः शूर्पकर्णो निबिडमस्तकः ॥ ३५॥ स्तबकाकारकुम्भाग्रो रत्नमौलिर्निरङ्कुशः । सर्पहारकटीसूत्रः सर्पयज्ञोपवीतवान् ॥ ३६॥ सर्पकोटीरकटकः सर्पग्रैवेयकाङ्गदः । सर्पकक्षोदराबन्धः सर्पराजोत्तरच्छदः ॥ ३७॥ रक्तो रक्ताम्बरधरो रक्तमालाविभूषणः । रक्तेक्षणो रक्तकरो रक्तताल्वोष्ठपल्लवः ॥ ३८॥ श्वेतः श्वेताम्बरधरः श्वेतमालाविभूषणः । श्वेतातपत्ररुचिरः श्वेतचामरवीजितः ॥ ३९॥ सर्वावयवसम्पूर्णः सर्वलक्षणलक्षितः । सर्वाभरणशोभाढ्यः सर्वशोभासमन्वितः ॥ ४०॥ सर्वमङ्गलमाङ्गल्यः सर्वकारणकारणम् । सर्वदेववरः शार्ङ्गी बीजपूरी गदाधरः ॥ ४१॥ शुभाङ्गो लोकसारङ्गः सुतन्तुस्तन्तुवर्धनः । किरीटी कुण्डली हारी वनमाली शुभाङ्गदः ॥ ४२॥ इक्षुचापधरः शूली चक्रपाणिः सरोजभृत् । पाशी धृतोत्पलः शालिमञ्जरीभृत्स्वदन्तभृत् ॥ ४३॥ कल्पवल्लीधरो विश्वाभयदैककरो वशी । अक्षमालाधरो ज्ञानमुद्रावान् मुद्गरायुधः ॥ ४४॥ पूर्णपात्री कम्बुधरो विधृताङ्कुशमूलकः । करस्थाम्रफलश्चूतकलिकाभृत्कुठारवान् ॥ ४५॥ पुष्करस्थस्वर्णघटीपूर्णरत्नाभिवर्षकः । भारतीसुन्दरीनाथो विनायकरतिप्रियः ॥ ४६॥ महालक्ष्मीप्रियतमः सिद्धलक्ष्मीमनोरमः । रमारमेशपूर्वाङ्गो दक्षिणोमामहेश्वरः ॥ ४७॥ महीवराहवामाङ्गो रतिकन्दर्पपश्चिमः । आमोदमोदजननः सम्प्रमोदप्रमोदनः ॥ ४८॥ संवर्धितमहावृद्धिरृद्धिसिद्धिप्रवर्धनः । दन्तसौमुख्यसुमुखः कान्तिकन्दलिताश्रयः ॥ ४९॥ मदनावत्याश्रिताङ्घ्रिः कृतवैमुख्यदुर्मुखः । विघ्नसम्पल्लवः पद्मः सर्वोन्नतमदद्रवः ॥ ५०॥ विघ्नकृन्निम्नचरणो द्राविणीशक्तिसत्कृतः । तीव्राप्रसन्ननयनो ज्वालिनीपालितैकदृक् ॥ ५१॥ मोहिनीमोहनो भोगदायिनीकान्तिमण्डनः । कामिनीकान्तवक्त्रश्रीरधिष्ठितवसुन्धरः ॥ ५२॥ वसुधारामदोन्नादो महाशङ्खनिधिप्रियः । नमद्वसुमतीमाली महापद्मनिधिः प्रभुः ॥ ५३॥ सर्वसद्गुरुसंसेव्यः शोचिष्केशहृदाश्रयः । ईशानमूर्धा देवेन्द्रशिखः पवननन्दनः ॥ ५४॥ प्रत्युग्रनयनो दिव्यो दिव्यास्त्रशतपर्वधृक् । ऐरावतादिसर्वाशावारणो वारणप्रियः ॥ ५५॥ वज्राद्यस्त्रपरीवारो गणचण्डसमाश्रयः । जयाजयपरिकरो विजयाविजयावहः ॥ ५६॥ अजयार्चितपादाब्जो नित्यानन्दवनस्थितः । विलासिनीकृतोल्लासः शौण्डी सौन्दर्यमण्डितः ॥ ५७॥ अनन्तानन्तसुखदः सुमङ्गलसुमङ्गलः । ज्ञानाश्रयः क्रियाधार इच्छाशक्तिनिषेवितः ॥ ५८॥ सुभगासंश्रितपदो ललिताललिताश्रयः । कामिनीपालनः कामकामिनीकेलिलालितः ॥ ५९॥ सरस्वत्याश्रयो गौरीनन्दनः श्रीनिकेतनः । गुरुगुप्तपदो वाचासिद्धो वागीश्वरीपतिः ॥ ६०॥ नलिनीकामुको वामारामो ज्येष्ठामनोरमः । रौद्रीमुद्रितपादाब्जो हुम्बीजस्तुङ्गशक्तिकः ॥ ६१॥ विश्वादिजननत्राणः स्वाहाशक्तिः सकीलकः । अमृताब्धिकृतावासो मदघूर्णितलोचनः ॥ ६२॥ उच्छिष्टोच्छिष्टगणको गणेशो गणनायकः । सार्वकालिकसंसिद्धिर्नित्यसेव्यो दिगम्बरः ॥ ६३॥ अनपायोऽनन्तदृष्टिरप्रमेयोऽजरामरः । अनाविलोऽप्रतिहतिरच्युतोऽमृतमक्षरः ॥ ६४॥ अप्रतर्क्योऽक्षयोऽजय्योऽनाधारोऽनामयोऽमलः । अमेयसिद्धिरद्वैतमघोरोऽग्निसमाननः ॥ ६५॥ अनाकारोऽब्धिभूम्यग्निबलघ्नोऽव्यक्तलक्षणः । आधारपीठमाधार आधाराधेयवर्जितः ॥ ६६॥ आखुकेतन आशापूरक आखुमहारथः । इक्षुसागरमध्यस्थ इक्षुभक्षणलालसः ॥ ६७॥ इक्षुचापातिरेकश्रीरिक्षुचापनिषेवितः । इन्द्रगोपसमानश्रीरिन्द्रनीलसमद्युतिः ॥ ६८॥ इन्दीवरदलश्याम इन्दुमण्डलमण्डितः । इध्मप्रिय इडाभाग इडावानिन्दिराप्रियः ॥ ६९॥ इक्ष्वाकुविघ्नविध्वंसी इतिकर्तव्यतेप्सितः । ईशानमौलिरीशान ईशानप्रिय ईतिहा ॥ ७०॥ ईषणात्रयकल्पान्त ईहामात्रविवर्जितः । उपेन्द्र उडुभृन्मौलिरुडुनाथकरप्रियः ॥ ७१॥ उन्नतानन उत्तुङ्ग उदारस्त्रिदशाग्रणीः । ऊर्जस्वानूष्मलमद ऊहापोहदुरासदः ॥ ७२॥ ऋग्यजुःसामनयन ऋद्धिसिद्धिसमर्पकः । ऋजुचित्तैकसुलभो ऋणत्रयविमोचनः ॥ ७३॥ लुप्तविघ्नः स्वभक्तानां लुप्तशक्तिः सुरद्विषाम् । लुप्तश्रीर्विमुखार्चानां लूताविस्फोटनाशनः ॥ ७४॥ एकारपीठमध्यस्थ एकपादकृतासनः । एजिताखिलदैत्यश्रीरेधिताखिलसंश्रयः ॥ ७५॥ ऐश्वर्यनिधिरैश्वर्यमैहिकामुष्मिकप्रदः । ऐरंमदसमोन्मेष ऐरावतसमाननः ॥ ७६॥ ओंकारवाच्य ओंकार ओजस्वानोषधीपतिः । औदार्यनिधिरौद्धत्यधैर्य औन्नत्यनिःसमः ॥ ७७॥ अङ्कुशः सुरनागानामङ्कुशाकारसंस्थितः । अः समस्तविसर्गान्तपदेषु परिकीर्तितः ॥ ७८॥ कमण्डलुधरः कल्पः कपर्दी कलभाननः । कर्मसाक्षी कर्मकर्ता कर्माकर्मफलप्रदः ॥ ७९॥ कदम्बगोलकाकारः कूष्माण्डगणनायकः । कारुण्यदेहः कपिलः कथकः कटिसूत्रभृत् ॥ ८०॥ खर्वः खड्गप्रियः खड्गः खान्तान्तःस्थः खनिर्मलः । खल्वाटशृङ्गनिलयः खट्वाङ्गी खदुरासदः ॥ ८१॥ गुणाढ्यो गहनो गद्यो गद्यपद्यसुधार्णवः । गद्यगानप्रियो गर्जो गीतगीर्वाणपूर्वजः ॥ ८२॥ गुह्याचाररतो गुह्यो गुह्यागमनिरूपितः । गुहाशयो गुडाब्धिस्थो गुरुगम्यो गुरुर्गुरुः ॥ ८३॥ घण्टाघर्घरिकामाली घटकुम्भो घटोदरः । ङकारवाच्यो ङाकारो ङकाराकारशुण्डभृत् ॥ ८४॥ चण्डश्चण्डेश्वरश्चण्डी चण्डेशश्चण्डविक्रमः । चराचरपिता चिन्तामणिश्चर्वणलालसः ॥ ८५॥ छन्दश्छन्दोद्भवश्छन्दो दुर्लक्ष्यश्छन्दविग्रहः । जगद्योनिर्जगत्साक्षी जगदीशो जगन्मयः ॥ ८६॥ जप्यो जपपरो जाप्यो जिह्वासिंहासनप्रभुः । स्रवद्गण्डोल्लसद्धानझङ्कारिभ्रमराकुलः ॥ ८७॥ टङ्कारस्फारसंरावष्टङ्कारमणिनूपुरः । ठद्वयीपल्लवान्तस्थसर्वमन्त्रेषु सिद्धिदः ॥ ८८॥ डिण्डिमुण्डो डाकिनीशो डामरो डिण्डिमप्रियः । ढक्कानिनादमुदितो ढौङ्को ढुण्ढिविनायकः ॥ ८९॥ तत्त्वानां प्रकृतिस्तत्त्वं तत्त्वम्पदनिरूपितः । तारकान्तरसंस्थानस्तारकस्तारकान्तकः ॥ ९०॥ स्थाणुः स्थाणुप्रियः स्थाता स्थावरं जङ्गमं जगत् । दक्षयज्ञप्रमथनो दाता दानं दमो दया ॥ ९१॥ दयावान्दिव्यविभवो दण्डभृद्दण्डनायकः । दन्तप्रभिन्नाभ्रमालो दैत्यवारणदारणः ॥ ९२॥ दंष्ट्रालग्नद्वीपघटो देवार्थनृगजाकृतिः । धनं धनपतेर्बन्धुर्धनदो धरणीधरः ॥ ९३॥ ध्यानैकप्रकटो ध्येयो ध्यानं ध्यानपरायणः । ध्वनिप्रकृतिचीत्कारो ब्रह्माण्डावलिमेखलः ॥ ९४॥ नन्द्यो नन्दिप्रियो नादो नादमध्यप्रतिष्ठितः । निष्कलो निर्मलो नित्यो नित्यानित्यो निरामयः ॥ ९५॥ परं व्योम परं धाम परमात्मा परं पदम् ॥ ९६॥ परात्परः पशुपतिः पशुपाशविमोचनः । पूर्णानन्दः परानन्दः पुराणपुरुषोत्तमः ॥ ९७॥ पद्मप्रसन्नवदनः प्रणताज्ञाननाशनः । प्रमाणप्रत्ययातीतः प्रणतार्तिनिवारणः ॥ ९८॥ फणिहस्तः फणिपतिः फूत्कारः फणितप्रियः । बाणार्चिताङ्घ्रियुगलो बालकेलिकुतूहली । ब्रह्म ब्रह्मार्चितपदो ब्रह्मचारी बृहस्पतिः ॥ ९९॥ बृहत्तमो ब्रह्मपरो ब्रह्मण्यो ब्रह्मवित्प्रियः । बृहन्नादाग्र्यचीत्कारो ब्रह्माण्डावलिमेखलः ॥ १००॥ भ्रूक्षेपदत्तलक्ष्मीको भर्गो भद्रो भयापहः । भगवान् भक्तिसुलभो भूतिदो भूतिभूषणः ॥ १०१॥ भव्यो भूतालयो भोगदाता भ्रूमध्यगोचरः । मन्त्रो मन्त्रपतिर्मन्त्री मदमत्तो मनो मयः ॥ १०२॥ मेखलाहीश्वरो मन्दगतिर्मन्दनिभेक्षणः । महाबलो महावीर्यो महाप्राणो महामनाः ॥ १०३॥ यज्ञो यज्ञपतिर्यज्ञगोप्ता यज्ञफलप्रदः । यशस्करो योगगम्यो याज्ञिको याजकप्रियः ॥ १०४॥ रसो रसप्रियो रस्यो रञ्जको रावणार्चितः । राज्यरक्षाकरो रत्नगर्भो राज्यसुखप्रदः ॥ १०५॥ लक्षो लक्षपतिर्लक्ष्यो लयस्थो लड्डुकप्रियः । लासप्रियो लास्यपरो लाभकृल्लोकविश्रुतः ॥ १०६॥ वरेण्यो वह्निवदनो वन्द्यो वेदान्तगोचरः । विकर्ता विश्वतश्चक्षुर्विधाता विश |
Крик звука и природы – пояс Вселенной.94॥
Нанди дорог Нанди, а Нада расположена посреди Нады.
Он безупречен, чист, вечен, вечен и здоров.95 ॥
Высшее небо — высшая обитель, Высшая Душа — высшая обитель.96॥
Он — господин животных и освобождает их от веревок животных.
Он — полное блаженство Высшего Блаженства и Верховная Личность Бога в Пуранах.97॥
У него лотосоподобное лицо, и он уничтожает невежество простирающегося.
Он превосходит доказательства и убеждения и облегчает страдания ниц.98॥
Он рука феникса, повелитель феникса и свистун, любящий феникса.
Пара ног, которым поклонялись стрелы, с любопытством следила за игрой ребенка.
Брихаспати — это подставка для ног, которой поклоняется Верховная Личность Бога.99॥
Он величайший из всех, предан Абсолютной Истине, предан Абсолютной Истине и дорог тому, кто знает Абсолютную Истину.
Пояс вселенной подобен громкому-громкому крику.100 ॥
Брови отданы богине Бхарге, которая приносит благо и рассеивает страх.
Преданные легко достигают Верховной Личности Бога, который дарует все счастье и является украшением всего счастья.101॥
Великолепная обитель земли дарит наслаждение и видна между бровями.
Мантра — господин мантр, служитель — сумасшедший, а ум — иллюзия.102॥
Повелитель поясных змей движется медленно и у него медлительные глаза.
Он был очень сильным и могущественным, у него была прекрасная жизнь и великий ум 103॥
Ягья — хозяин жертвоприношений, защитник жертвоприношений и податель плодов жертвоприношений.
Он был известен и достижим благодаря йоге.Он совершал жертвоприношения и любил священников 104॥.
Раса - любитель вкуса и краситель вкуса, ему поклоняется Равана.
Он защищает королевство, рождается из драгоценных камней и дарует счастье королевства 105॥
Лакша — повелитель тысяч лакхов, а Лакшья находится в ритме и любит ладду.
Он любил смех и любил смех.106॥
Он превосходен, у него огненное лицо, он достоин поклонения и виден Ведам.
Викарта, создатель глаз вселенной, войди